"★ अथ संज्ञाप्रकरणम्★" १- हलन्त्यम् (१/३/३) उपदेशे ऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र॥ २-- अदर्शनं लोपः (१/१/६०) प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्। ३--- तस्य लोपः (१/३/९) तस्येतो लोपः स्यात्। णादयो ऽणाद्यर्थाः। ४---- आदिरन्त्येन सहेता (१/१/७१) अन्त्येनेता सहति आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥ ५- ऊकालो ऽज्झ्रस्वदीर्घप्लुतः (१/२/२७) उश्च ऊश्च ऊ३श्च वः॑ वां कालो यस्य सो ऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादि भेदेन त्रिधा। ६-- उच्चैरुदात्तः (१/२/२९) ७-- नीचैरनुदात्तः (१/२/३०) ८-- समाहारः स्वरतिः (१/२/३१) स नवविधो ऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा॥ ९---- मुखनासिकावचनो ऽनुनासिकः (१/२/८) मुखसहतिनासिकयोच्चार्यमाणो वर्णो ऽनुनासिकसंज्ञः स्यात्। तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। ऌवर्णस्य द्वादश, तस्य दीर्घाभावात्। एचामपि द्वादश, तेषां ह्रस्वाभावात्॥ १०--- तुल्यास...