अथ संज्ञाप्रकरणम् (वैयाकरणसिद्धान्तकौमुदीम्)
"★ अथ संज्ञाप्रकरणम्★"
उपदेशे ऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र॥
२-- अदर्शनं लोपः (१/१/६०)
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्।
३--- तस्य लोपः (१/३/९)
तस्येतो लोपः स्यात्। णादयो ऽणाद्यर्थाः।
४---- आदिरन्त्येन सहेता (१/१/७१)
अन्त्येनेता सहति आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥
५- ऊकालो ऽज्झ्रस्वदीर्घप्लुतः (१/२/२७)
उश्च ऊश्च ऊ३श्च वः॑ वां कालो यस्य सो ऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादि भेदेन त्रिधा।
६-- उच्चैरुदात्तः (१/२/२९)
७-- नीचैरनुदात्तः (१/२/३०)
८-- समाहारः स्वरतिः (१/२/३१)
स नवविधो ऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा॥
९---- मुखनासिकावचनो ऽनुनासिकः (१/२/८)
मुखसहतिनासिकयोच्चार्यमाणो वर्णो ऽनुनासिकसंज्ञः स्यात्। तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। ऌवर्णस्य द्वादश, तस्य दीर्घाभावात्। एचामपि द्वादश, तेषां ह्रस्वाभावात्॥
१०--- तुल्यास्यप्रयत्नं सवर्णम् (१/१/८)
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्। (ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्)। अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा। ऌतुलसानां दन्ताः। उपूपध्मानीयानामोष्ठौ। ञमङणनानां नासिका च। एदैतोः कण्ठ तालु। ओदौतोः कण्ठोष्टम्। वकारस्य दन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकानुस्वारस्य। यत्नो द्विधा - आभ्यन्तरो बाह्यश्च। आद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृत भेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषो ऽघोषो ऽल्पप्राणोमहाप्राण उदात्तो ऽनुदात्तः स्वरतिश्चेति। खरो विवाराः श्वासा अघोषाश्च। हशः संवारा नादा घोषाश्च। वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः। वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः। कादयो मावसानाः स्पर्शाः। यणो ऽन्तःस्थाः। शल ऊष्माणः। अचः स्वराः। -क-ख इति कखाभ्यां प्रगर्धविसर्गसदृशो जिह्वामूलीयः। -प-फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः। अं अः इत्यचः परावनुस्वारविसर्गौ॥
११--- अणुदित्सवर्णस्य चाप्रत्ययः (१/१/६९)
प्रतीयते विधीयत इति प्रत्ययः। अविधीयमानो ऽणुदिच्च सवर्णस्य संज्ञा स्यात्। अत्रैवाण् परेण णकारेण। कु चु टु तु पु एते उदितः। तदेवम् - अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवं ऌकारो ऽपि। एचो द्वादशानाम्। अनुनासिकाननुनासिकभेदेन यवला द्विधा॑ तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा।
१२-- परः संनिकर्षः संहिता (१/१/१०९)
विर्णानामतिशयितः संनिधिः संहतासिंज्ञः स्यात्॥
१३-- हलो ऽनन्तराः संयोगः (१/१/७)
अज्भिरव्यवहता हलिः संयोगसंज्ञाः स्युः॥
Vimal pathak
Banaras hindu university
Our youtube channel link 👇
https://www.youtube.com/channel/UCS8Qvd1orJl5KtGn9JFFwKA
Our blogger visit now 👇
https://www.youtube.com/channel/UCS8Qvd1orJl5KtGn9JFFwKA
Telegram link 👇
@paninisanskritvyakaranbypathakji
Type in Google searchbar now 👇
youtube.com/c/संस्कृतसम्बन्धितजानकारी
Comments
Post a Comment